मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३९, ऋक् २

संहिता

अ॒यमु॑शा॒नः पर्यद्रि॑मु॒स्रा ऋ॒तधी॑तिभिरृत॒युग्यु॑जा॒नः ।
रु॒जदरु॑ग्णं॒ वि व॒लस्य॒ सानुं॑ प॒णीँर्वचो॑भिर॒भि यो॑ध॒दिन्द्र॑ः ॥

पदपाठः

अ॒यम् । उ॒शा॒नः । परि॑ । अद्रि॑म् । उ॒स्राः । ऋ॒तधी॑तिऽभिः । ऋ॒त॒ऽयुक् । यु॒जा॒नः ।
रु॒जत् । अरु॑ग्णम् । वि । व॒लस्य॑ । सानु॑म् । प॒णीन् । वचः॑ऽभिः । अ॒भि । यो॒ध॒त् । इन्द्रः॑ ॥

सायणभाष्यम्

अयमिन्द्रः अद्रिं बलेन गोपिधानाय निर्मितं शिलोच्चयं परि परितः पर्वतसमीपे विद्यमानाउस्रागाः उशानः कामयमानः ऋतधीति- भिः सत्यकर्मभिः अंगिरोभिः युजानः संगच्छमानः ऋतयुक् ऋतेनतत्कृतेनस्तोत्रेणयुक्तश्च भूत्वा बलस्यासुरस्य स्वभूतं सानुमुच्छ्रितंपर्वतं अरुग्णं अन्यैरभग्नं विरुजत् व्यभांक्षीत् किंच पणीन् बलानुचरानेतत्संज्ञानसुरांश्च वचोभिः स्तुत्यैरायुधैः संतर्जनरूपैर्वाक्यैरेववायमिन्द्रः अभियोधत् अभ्ययुध्यत् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११