मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३९, ऋक् ४

संहिता

अ॒यं रो॑चयद॒रुचो॑ रुचा॒नो॒३॒॑ऽयं वा॑सय॒द्व्यृ१॒॑तेन॑ पू॒र्वीः ।
अ॒यमी॑यत ऋत॒युग्भि॒रश्वै॑ः स्व॒र्विदा॒ नाभि॑ना चर्षणि॒प्राः ॥

पदपाठः

अ॒यम् । रो॒च॒य॒त् । अ॒रुचः॑ । रु॒चा॒नः । अ॒यम् । वा॒स॒य॒त् । वि । ऋ॒तेन॑ । पू॒र्वीः ।
अ॒यम् । ई॒य॒ते॒ । ऋ॒त॒युक्ऽभिः॑ । अश्वैः॑ । स्वः॒ऽविदा॑ । नाभि॑ना । च॒र्ष॒णि॒ऽप्राः ॥

सायणभाष्यम्

अयमिन्द्रः रुचानोरोचमानः सूर्यात्मनादीप्यमानः अरुचः प्रकाशरहितान् तमसामलीमसान्सर्वान्लोकान् रोचयत् प्रकाशयति तथा पूर्वीर्बह्वीरुषसश्च अयमिन्द्रः ऋतेन सत्यभूतेन सर्वत्रगमनशीलेनवा तेजसा विवासयत् व्यापयति तत्रत्यानितमांसिनिवर्तयतीत्यर्थः त- था ऋतयुग्मिः ऋतेनस्तोत्रेणयुज्यमानैरश्वैः नाभिना संनद्धेन स्वर्विदासुष्ठु अरणीयस्य धनस्य लंभकेनरथेन चर्षणिप्राः चर्षणीनांमनुष्या- णांकामैः पूरयितासन् अयमेवेन्द्रः ईयते गच्छति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११