मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४०, ऋक् २

संहिता

अस्य॑ पिब॒ यस्य॑ जज्ञा॒न इ॑न्द्र॒ मदा॑य॒ क्रत्वे॒ अपि॑बो विरप्शिन् ।
तमु॑ ते॒ गावो॒ नर॒ आपो॒ अद्रि॒रिन्दुं॒ सम॑ह्यन्पी॒तये॒ सम॑स्मै ॥

पदपाठः

अस्य॑ । पि॒ब॒ । यस्य॑ । ज॒ज्ञा॒नः । इ॒न्द्र॒ । मदा॑य । क्रत्वे॑ । अपि॑बः । वि॒ऽर॒प्शि॒न् ।
तम् । ऊं॒ इति॑ । ते॒ । गावः॑ । नरः॑ । आपः॑ । अद्रिः॑ । इन्दु॑म् । सम् । अ॒ह्य॒न् । पी॒तये॑ । सम् । अ॒स्मै॒ ॥

सायणभाष्यम्

हेइन्द्र अस्यइमंसोमंपिब हे विरप्शिन् महन् जज्ञानोजायमानएवत्वंयस्ययंसोमंअपिबः पूर्वं पीतवानसि किमर्थं मदायहर्षाय क्रत्वेकर्म- णे वृत्रवधादिलक्षणंवीर्यकर्मकर्तुंच तमुतादृशमेवेन्दुंसो मंगावःगाविभवाः श्रपणसाधनाःक्षीरादयःनरोनेतारोध्वर्यवःआपोवसतीवर्याख्याः अद्रिरभिषवार्थोग्रावाएतेसर्वे अस्मैअस्येन्द्रस्यतेतवपीतयेपानार्थं समह्यन् समगमयन् हिगतावित्यस्यैतद्रूपं पुनःसमितिपूरकः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२