मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४२, ऋक् ४

संहिता

अ॒स्माअ॑स्मा॒ इदन्ध॒सोऽध्व॑र्यो॒ प्र भ॑रा सु॒तम् ।
कु॒वित्स॑मस्य॒ जेन्य॑स्य॒ शर्ध॑तो॒ऽभिश॑स्तेरव॒स्पर॑त् ॥

पदपाठः

अ॒स्मैऽअ॑स्मै । इत् । अन्ध॑सः । अध्व॑र्यो॒ इति॑ । प्र । भ॒र॒ । सु॒तम् ।
कु॒वित् । स॒म॒स्य॒ । जेन्य॑स्य । शर्ध॑तः । अ॒भिऽश॑स्तेः । अ॒व॒ऽस्पर॑त् ॥

सायणभाष्यम्

अस्मा अस्माइत् अस्मएवेन्द्राय नान्यस्मै हेअध्वर्यो त्वंअन्धसः सोमलक्षणस्यान्नस्य सुतमभिषुतंरसं प्रभर संप्रहर प्रयच्छेतियावत् सचेन्द्रः समस्यसर्वस्यजेन्यस्य जेतव्यस्य शर्धतः उत्सहमानस्यशत्रोः अभिशस्तेः अभिशंसनात् तत्कृताद्धिंसनात् कुविद्बहुशः अवस्परत् अस्मान्पालयतु ॥ ४ ॥

यस्यत्यदितिचतुरृचंविंशंसूक्तम् । भरद्वाजस्यार्षमौष्णिहमैन्द्रं अनुक्रम्यतेच—यस्यौष्णिहमिति । महाव्रतेपिनिष्केवल्येऔष्णिहतृचा- शीतावेतत्सूक्तं तथैवपंचमारण्यकेसूत्रितं—यस्यत्यच्छंबरंमदइतित्रयस्तृचागायत्र्यइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४