मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४४, ऋक् ७

संहिता

अवि॑द॒द्दक्षं॑ मि॒त्रो नवी॑यान्पपा॒नो दे॒वेभ्यो॒ वस्यो॑ अचैत् ।
स॒स॒वान्त्स्तौ॒लाभि॑र्धौ॒तरी॑भिरुरु॒ष्या पा॒युर॑भव॒त्सखि॑भ्यः ॥

पदपाठः

अवि॑दत् । दक्ष॑म् । मि॒त्रः । नवी॑यान् । प॒पा॒नः । दे॒वेभ्यः॑ । वस्यः॑ । अ॒चै॒त् ।
स॒स॒ऽवान् । स्तौ॒लाभिः॑ । धौ॒तरी॑भिः । उ॒रु॒ष्या । पा॒युः । अ॒भ॒व॒त् । सखि॑ऽभ्यः ॥

सायणभाष्यम्

सइन्द्रः दक्षंकर्मसुममर्थं प्रवृद्धंवायष्टारं अविदत् जानाति कीदृशःमित्रोमित्रभूतः नवीयान् नवतरः कल्याणतरःस्तुत्यतरोवा सचपपा- नःसोमंपिबन् देवेभ्यःस्तोतृभ्यः वस्योवसीयः श्रेष्ठंधनंअचैत् चिनोति उपचितंकरोति ददातीतियावत् अपिच ससवान्ससमित्यन्ननाम ह- विर्लक्षणान्नोपेतः सइन्द्रः स्तौलाभिःस्थूलाभिःप्रवृद्धाभिः धौतरीभिःकंपनकारिणीभिर्वडवाभिः ईदृशैर्मरुद्भिर्वायुक्तःसन् सखिभ्यःस्तोतृ- भ्यःउरुष्यारक्षणेच्छयाआगत्यपायुरभवत् रक्षकोभवति यद्वा ससवानितिसनतेः क्वसौरूपं स्तौलाभिर्धौतरीभिःससवान् संभजमानइति- संबंधः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७