मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४४, ऋक् १३

संहिता

अध्व॑र्यो वीर॒ प्र म॒हे सु॒ताना॒मिन्द्रा॑य भर॒ स ह्य॑स्य॒ राजा॑ ।
यः पू॒र्व्याभि॑रु॒त नूत॑नाभिर्गी॒र्भिर्वा॑वृ॒धे गृ॑ण॒तामृषी॑णाम् ॥

पदपाठः

अध्व॑र्यो॒ इति॑ । वी॒र॒ । प्र । म॒हे । सु॒ताना॑म् । इन्द्रा॑य । भ॒र॒ । सः । हि । अ॒स्य॒ । राजा॑ ।
यः । पू॒र्व्याभिः॑ । उ॒त । नूत॑नाभिः । गीः॒ऽभिः । व॒वृ॒धे । गृ॒ण॒ताम् । ऋषी॑णाम् ॥

सायणभाष्यम्

हेवीर हविषांविशेषेणप्रेरयितरध्वर्यो महेमहतेअस्मैइन्द्रायसुतानां कर्मणिषष्ठी सुतानभिषुतान् सोमान्प्रभर प्रहर प्रगमय सहिखल्वि- न्द्रः अस्यसोमस्यराजास्वामीभवति यइन्द्रः पूर्व्याभिः पूर्वकालेकृताभिः उतापिच नूतनाभिःइदानींक्रियमाणाभिः गृणतांस्तुवतांऋषी- णांसंबन्धिनीभिर्गीर्भिः उभयविधाभिःस्तुतिभिर्वावृधेवर्धते सइन्द्रः यस्मात् सोमस्यराजातस्मादस्मैसोमःप्रदेयइत्यर्थः ॥ १३ ॥ प्रथमेरात्रिपर्यार्येमैत्रावरुणस्यअस्यमदइतिशस्त्रयाज्या सूत्रितंच—अस्यमदेपुरुवर्पांसिविद्वानितियाज्येति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८