मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४४, ऋक् १४

संहिता

अ॒स्य मदे॑ पु॒रु वर्पां॑सि वि॒द्वानिन्द्रो॑ वृ॒त्राण्य॑प्र॒ती ज॑घान ।
तमु॒ प्र हो॑षि॒ मधु॑मन्तमस्मै॒ सोमं॑ वी॒राय॑ शि॒प्रिणे॒ पिब॑ध्यै ॥

पदपाठः

अ॒स्य । मदे॑ । पु॒रु । वर्पां॑सि । वि॒द्वान् । इन्द्रः॑ । वृ॒त्राणि॑ । अ॒प्र॒ति । ज॒घा॒न॒ ।
तम् । ऊं॒ इति॑ । प्र । हो॒षि॒ । मधु॑ऽमन्तम् । अ॒स्मै॒ । सोम॑म् । वी॒राय॑ । शि॒प्रिणे॑ । पिब॑ध्यै ॥

सायणभाष्यम्

अस्यसोमस्यपानेनमदेहर्षेसति विद्वान् अभिज्ञइन्द्रः पुरुपुरूणिबहूनिवर्पांसि आवरकाणिवृत्राणिशत्रून् अप्रतिस्वयमन्यैरप्रतिगतःसन् जघान हतवान् यद्वा वर्पइतिरूपनाम बहूनि वर्पांसिअसुरमाययानिर्मितानि रूपाणि विद्वान् जानन्निन्द्रः वृत्राण्यावरकाणिरक्षःप्रभृतीनि इतःपूर्वमन्यैरप्रतिगतानि जघानहतवान् मधुमन्तंमाधुर्यवन्तंतमुतमेवसोमंशिप्रिणेशोभनहनुकायअस्मैवीराय शत्रूणांवारयित्रेइन्द्राय पि- बध्यैपातुंप्रहोषि हेअध्वर्योप्रजुहुधि ॥ १४ ॥ द्वितीयेरात्रिपर्यायेमैत्रावरुणस्यैवपातासुतमितिशस्त्रयाज्या सूत्रितंच—पातासुतमिन्द्रोअस्तुसोमंहन्तावृत्रमितियाज्येति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८