मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४४, ऋक् २२

संहिता

अ॒यं दे॒वः सह॑सा॒ जाय॑मान॒ इन्द्रे॑ण यु॒जा प॒णिम॑स्तभायत् ।
अ॒यं स्वस्य॑ पि॒तुरायु॑धा॒नीन्दु॑रमुष्णा॒दशि॑वस्य मा॒याः ॥

पदपाठः

अ॒यम् । दे॒वः । सह॑सा । जाय॑मानः । इन्द्रे॑ण । यु॒जा । प॒णिम् । अ॒स्त॒भा॒य॒त् ।
अ॒यम् । स्वस्य॑ । पि॒तुः । आयु॑धानि । इन्दुः॑ । अ॒मु॒ष्णा॒त् । अशि॑वस्य । मा॒याः ॥

सायणभाष्यम्

देवोद्योतमानःअयमिन्दुःसोमः इन्द्रेणयुजासख्यासहजायमानः प्रादुर्भवन् पणिंवणिजंगवामादातारं बलाख्यमसुरं यद्वा पणीनांस्वा- मित्वात् पणिरित्युच्यते तमसुरंसहसाबलेनअस्तभायत् अस्तभ्रात् न्यरुधत् अपिचअयंसोमःस्वस्यधनस्यगोरूपस्यपितुःपालयितुःअशिव- स्यासुखकरस्यबलस्यायुधानि वज्रादीनिअमुष्णादपाहरत् तदीयामायाश्चामुष्णात् हेइन्द्र त्वत्सख्यबलात् एतत्सर्वंसोमः कृतवान् अतस्त- वमहिमाकेनवर्णयितुंशक्यतइतीन्द्रस्तुतिः ॥ २२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०