मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४४, ऋक् २४

संहिता

अ॒यं द्यावा॑पृथि॒वी वि ष्क॑भायद॒यं रथ॑मयुनक्स॒प्तर॑श्मिम् ।
अ॒यं गोषु॒ शच्या॑ प॒क्वम॒न्तः सोमो॑ दाधार॒ दश॑यन्त्र॒मुत्स॑म् ॥

पदपाठः

अ॒यम् । द्यावा॑पृथि॒वी इति॑ । वि । स्क॒भा॒य॒त् । अ॒यम् । रथ॑म् । अ॒यु॒न॒क् । स॒प्तऽर॑श्मिम् ।
अ॒यम् । गोषु॑ । शच्या॑ । प॒क्वम् । अ॒न्तरिति॑ । सोमः॑ । दा॒धा॒र॒ । दश॑ऽयन्त्रम् । उत्स॑म् ॥

सायणभाष्यम्

अयंसोमः द्यावापृथिवीदिवंचपृथिवींचविष्कभायत् विविधमस्थापयत् अपिचायंसोमः सूर्यस्यचरथंसप्तरश्मिंसप्तरश्मिभिःकिरणैरुपे- तं सप्ताश्वंसप्तचक्रंवाअयुनक् अयोजयत् तथाअयंसोमः गोष्वन्तर्मध्येपक्वंनिष्पन्नं शच्याप्रज्ञयासंकल्परूपयाउत्समुत्सरणशीलंपयः दाधार धारयति दशयंत्रं उत्सस्यहेतुगर्भविशेषणमेतत् उत्सरणहेतुभूतैर्दशभिःचक्षुःश्रोत्रादिभिःयंत्रैपायैर्युक्तं इदंचपदंखैलिकेनमंत्रान्तरेणव्याख्या- यते—चक्षुश्चश्रोत्रंचमनश्चवाक्चप्राणापानौदेहइदं शरीरम् । द्वौप्रत्यंचावनुलोमौविसर्गावेतंत्वंमन्येदशयंत्रमुत्समिति । यद्वाअयमिन्द्रः द्या- वापृथिवीविष्कभायत् स्वेस्वेस्थानेस्थितेअकरोत् अयमेवसप्तरश्मिं सूर्यस्यरथमयुनक् अयमेवेन्द्रोगोष्वन्तः शच्याआत्मीयेनकर्मणापक्वंप- योधारयति एवंभूतेन्द्रार्थंसोमःदशयंत्रं दशसंख्याकैरैन्द्रवावायवादिभिःग्रहैर्यंत्रितैःगृहीतैरुपेतं उत्संउत्सरणशीलं रसं दाधारधारयति प्रा- तःसवनेऎन्द्रवायवादयोदशग्रहागृह्यंते तथाचब्राह्मणं—नवप्रातर्ग्रहागृह्यंतेनवभिर्बहिष्पवमानेस्तुवतेस्तुतेस्तोमेदशमंगृह्णातीति । अन्य- त्राम्नातं—दशैतानध्वर्युःप्रातःसवनेग्रहान्गृह्णातीति । तदभिप्रायेणेदंदशयंत्रमितिविशेषणं ॥ २४ ॥

यआनयदितित्रयस्त्रिंशत्यृचंद्वितीयंसूक्तं बृहस्पतिपुत्रस्यशंयोरार्षं पुरूतममित्येषातिनिचृत् अधिबृबुरित्येषापादनिचृत् त्रयःसप्तकाः पादनिचृत् मध्यमःषटृश्चेदतिनित्युक्तलक्षणात् त्रयस्त्रिंश्यनुष्टुप् शिष्टागायत्र्यः अधिबृबुः पणीनामित्येस्मिन्नंत्येतृचेबृबुर्नामतक्षास्तूयते अतः सतृचःतद्देवताकः शिष्टास्त्रिंशदैन्द्मः तथाचानुक्रान्तं—यआनयत्रयस्त्त्रिंशद्गायत्रंपुरूतममितिनिचृदंत्यानुष्टुप् तृचेंत्येबृबुस्तक्षादैवत- मिति । महाव्रतेपिनिष्केवल्येअंत्यस्तृचवर्जमेतत्सूक्तं तथैवपंचमारण्यकं यआनयत्परावतइतितिस्रउत्तमामुद्धरतीति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०