मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४५, ऋक् २

संहिता

अ॒वि॒प्रे चि॒द्वयो॒ दध॑दना॒शुना॑ चि॒दर्व॑ता ।
इन्द्रो॒ जेता॑ हि॒तं धन॑म् ॥

पदपाठः

अ॒वि॒प्रे । चि॒त् । वयः॑ । दध॑त् । अ॒ना॒शुना॑ । चि॒त् । अर्व॑ता ।
इन्द्रः॑ । जेता॑ । हि॒तम् । धन॑म् ॥

सायणभाष्यम्

अविप्रेचित् विप्रःस्तोता तद्विलक्षणेपिपुरुषे वयोन्नंदधत्इन्द्रोधारयति किमुवक्तव्यंस्तोतरिधारयतीति सइन्द्रःअनाशुनाचित्अक्षिप्र- गमनेनापिअर्वता अश्वेनहितं शत्रुषुनिहितंस्थापितं धनंजेता जयशीलोभवती जयतेस्ताच्छीलिकस्तृन् अतोनलोकाव्ययेतिषष्ठीप्रतिषेधः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१