मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४५, ऋक् १३

संहिता

अभू॑रु वीर गिर्वणो म॒हाँ इ॑न्द्र॒ धने॑ हि॒ते ।
भरे॑ वितन्त॒साय्य॑ः ॥

पदपाठः

अभूः॑ । ऊं॒ इति॑ । वी॒र॒ । गि॒र्व॒णः॒ । म॒हान् । इ॒न्द्र॒ । धने॑ । हि॒ते ।
भरे॑ । वि॒त॒न्त॒साय्यः॑ ॥

सायणभाष्यम्

हेवीर विविधंईरयितः शत्रूणां हेगिर्वणोगीर्भिर्वननीयेन्द्र हितेशत्रुषुनिहितेधनेनिमित्तभूतेसति महान् प्रवृद्धस्त्वं भरेसंग्रामेवितंतसा- य्यः शत्रूणांजेताभूः तंतसइतिधातुः जयार्थः कंड्ढादौ पठ्यते तस्मात् व्युपसृष्टादौणादिकः कर्तरिआय्यप्रत्ययः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३