मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४५, ऋक् ३०

संहिता

अ॒स्माक॑मिन्द्र भूतु ते॒ स्तोमो॒ वाहि॑ष्ठो॒ अन्त॑मः ।
अ॒स्मान्रा॒ये म॒हे हि॑नु ॥

पदपाठः

अ॒स्माक॑म् । इ॒न्द्र॒ । भू॒तु॒ । ते॒ । स्तोमः॑ । वाहि॑ष्ठः । अन्त॑मः ।
अ॒स्मान् । रा॒ये । म॒हे । हि॒नु॒ ॥

सायणभाष्यम्

हेइन्द्र वाहिष्ठोवोढृतमः अस्माकंस्तोम स्तोत्रंतेतवअन्तमःअन्तिकतमोभूतुभवतु त्वंचास्मान् महेमहते रायेधनायहिन् प्रेरय ॥ ३० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६