मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४५, ऋक् ३१

संहिता

अधि॑ बृ॒बुः प॑णी॒नां वर्षि॑ष्ठे मू॒र्धन्न॑स्थात् ।
उ॒रुः कक्षो॒ न गा॒ङ्ग्यः ॥

पदपाठः

अधि॑ । बृ॒बुः । प॒णी॒नाम् । वर्षि॑ष्ठे । मू॒र्धन् । अ॒स्था॒त् ।
उ॒रुः । कक्षः॑ । न । गा॒ङ्ग्यः ॥

सायणभाष्यम्

बृबुर्नामपणीनांतक्षा तत्सकाशाल्लब्धधनोभरद्वाजः तदीयंदानमनेनतृचेनास्तौत् एतच्चमनुनास्मर्यते—भरद्वाजःक्षुधार्तस्तुसपुत्रोनि- र्जनेवने । बह्वीर्गाःप्रतिजग्राहबृबोस्तक्ष्णोमहायशाइति ॥ पणनात्पणयोवणिजः एतत्संज्ञाअसुरावा तेषांतक्षाबृबुःवर्षिष्ठेमूर्धन् मूर्धनिमू- र्धवदुच्छ्रितेस्थलेअध्यस्थात् अधिष्ठितोभूत् गांग्यः गंगायाःकूलेउन्नतेभवः कक्षोन कक्षइव उरुविस्तीर्णःसन् जातितोहीनोतिदातृत्वात्- सर्वत्रश्रेष्ठोभवतीत्यर्थः ॥ ३१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६