ये ग॑व्य॒ता मन॑सा॒ शत्रु॑माद॒भुर॑भिप्र॒घ्नन्ति॑ धृष्णु॒या ।
अध॑ स्मा नो मघवन्निन्द्र गिर्वणस्तनू॒पा अन्त॑मो भव ॥
ये । ग॒व्य॒ता । मन॑सा । शत्रु॑म् । आ॒ऽद॒भुः । अ॒भि॒ऽप्र॒घ्नन्ति॑ । धृ॒ष्णु॒ऽया ।
अध॑ । स्म॒ । नः॒ । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । गि॒र्व॒णः॒ । त॒नू॒ऽपाः । अन्त॑मः । भ॒व॒ ॥
येजनाः गव्यताशत्रूणांगाइच्छतामनसायुक्ताःसन्तःशत्रुंशातयितारं वैरिणंआदभुरहिंसिषुः येचधृष्णुयाधृष्णवः धृष्टाः सन्तः अस्मान- भिलक्ष्यप्रघ्नंति प्रकर्षेणहिंसंति हेमघवन् धनवन् गिर्वणोगिरांसंभक्तरिन्द्र अधस्म अस्मिन्काले तेभ्यःसकाशात् नोस्माकंतनूपाः तनूनां- शरीराणांरक्षिता सन् अन्तमः अन्तिकतमोभव ॥ १० ॥