मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४६, ऋक् ११

संहिता

अध॑ स्मा नो वृ॒धे भ॒वेन्द्र॑ ना॒यम॑वा यु॒धि ।
यद॒न्तरि॑क्षे प॒तय॑न्ति प॒र्णिनो॑ दि॒द्यव॑स्ति॒ग्ममू॑र्धानः ॥

पदपाठः

अध॑ । स्म॒ । नः॒ । वृ॒धे । भ॒व॒ । इन्द्र॑ । ना॒यम् । अ॒व॒ । यु॒धि ।
यत् । अ॒न्तरि॑क्षे । प॒तय॑न्ति । प॒र्णिनः॑ । दि॒द्यवः॑ । ति॒ग्मऽमू॑र्धानः ॥

सायणभाष्यम्

हेइन्द्र अधस्मतदानींनोस्माकंवृधेवर्धनायभव अपिचनायंयोस्माकंनयोनेतायुधियुद्धे तमपिअवरक्ष तदेत्युक्तंकदेत्यतआह पर्णिनः पक्ष- वन्तः तिग्ममूर्धानस्तीक्ष्णास्याः दिद्यवोदीप्ताः बाणाः यद्यदाअन्तरिक्षेव्योम्निपतयन्तिशत्रुभिर्विसृष्टाःपतन्ति तदानींवृधेभवेत्यन्वयः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९