मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४७, ऋक् २

संहिता

अ॒यं स्वा॒दुरि॒ह मदि॑ष्ठ आस॒ यस्येन्द्रो॑ वृत्र॒हत्ये॑ म॒माद॑ ।
पु॒रूणि॒ यश्च्यौ॒त्ना शम्ब॑रस्य॒ वि न॑व॒तिं नव॑ च दे॒ह्यो॒३॒॑ हन् ॥

पदपाठः

अ॒यम् । स्वा॒दुः । इ॒ह । मदि॑ष्ठः । आ॒स॒ । यस्य॑ । इन्द्रः॑ । वृ॒त्र॒ऽहत्ये॑ । म॒माद॑ ।
पु॒रूणि॑ । यः । च्यौ॒त्ना । शम्ब॑रस्य । वि । न॒व॒तिम् । नव॑ । च॒ । दे॒ह्यः॑ । हन् ॥

सायणभाष्यम्

इहास्मिन् यज्ञेअयंसोमः स्वादुरास्वादितःपीतःसन् मदिष्ठः अतिशयेनमदयिता आसबभूव यस्यसोमस्यपानेनइन्द्रोवृत्रहत्ये वृत्रहनन- काले ममाद मत्तोबभूव यःसोमः शंबरस्यासुरस्य पुरूणिबहूनिच्यौत्नाच्यौत्नानिबलानिजघान तथादेह्यः दिग्धाःउपचिताःआसुरीःपुरीः तदीयान् देहान्वानवतिंनवचनवोत्तरनवतिसंख्याकाः यः सोमोविहन् व्यहन् अयंसोमइतिप्रथमपादेनसंबन्धः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०