मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४७, ऋक् ३

संहिता

अ॒यं मे॑ पी॒त उदि॑यर्ति॒ वाच॑म॒यं म॑नी॒षामु॑श॒तीम॑जीगः ।
अ॒यं षळु॒र्वीर॑मिमीत॒ धीरो॒ न याभ्यो॒ भुव॑नं॒ कच्च॒नारे ॥

पदपाठः

अ॒यम् । मे॒ । पी॒तः । उत् । इ॒य॒र्ति॒ । वाच॑म् । अ॒यम् । म॒नी॒षाम् । उ॒श॒तीम् । अ॒जी॒ग॒रिति॑ ।
अ॒यम् । षट् । उ॒र्वीः । अ॒मि॒मी॒त॒ । धीरः॑ । न । याभ्यः॑ । भुव॑नम् । कत् । च॒न । आ॒रे ॥

सायणभाष्यम्

अयंसोमःपीतःसन् मेममवाचंउदियर्ति उद्गयति अयमेवसोमउशतींकान्तांमनीषांबुद्धिं उदजीगः उद्गारयति प्रकाशयति गॄनिगरणे- इत्यस्माण्ण्यन्ताल्लुङिचङिरूपं अपिचायंधीरोधीमान् सोमः षळुर्वीः षण्मोर्वींरहसस्पान्तु द्यौश्चपृथिवीचाहश्चरात्रिश्चापश्चौषधयश्चेति- प्रतिपादिताद्युपृथिव्याद्याः षट् अमिमीत निर्मितवान् याभ्यउर्वीभ्यआरेदूरे विप्रकृष्टेदेशे कच्चन किंचन भुवनंभूतजातं नभवति अपितु- आस्वेवसर्वंभूतजातंवर्ततेतादृशीरुर्वीर्निर्मितवान् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०