मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४७, ऋक् ५

संहिता

अ॒यं वि॑दच्चित्र॒दृशी॑क॒मर्ण॑ः शु॒क्रस॑द्मनामु॒षसा॒मनी॑के ।
अ॒यं म॒हान्म॑ह॒ता स्कम्भ॑ने॒नोद्द्याम॑स्तभ्नाद्वृष॒भो म॒रुत्वा॑न् ॥

पदपाठः

अ॒यम् । वि॒द॒त् । चि॒त्र॒ऽदृशी॑कम् । अर्णः॑ । शु॒क्रऽस॑द्मनाम् । उ॒षसा॑म् । अनी॑के ।
अ॒यम् । म॒हान् । म॒ह॒ता । स्कम्भ॑नेन । उत् । द्याम् । अ॒स्त॒भ्ना॒त् । वृ॒ष॒भः । म॒रुत्वा॑न् ॥

सायणभाष्यम्

अमंसोमः चित्रदृशीकंविचित्रदर्शनं यद्वा आश्चर्यत्वेनदर्शनीयं अर्णःसर्वस्यप्रेरकं सौरं ज्योतिःविदत् लंभयति कस्मिन्काले शुक्रसद्मनां- शुक्रंनिर्मलमन्तरिक्षंसद्मसदनंयासांतासामुषसां अनीकेप्रमुखेउषःकालइत्यर्थः अपिच महान्प्रवृद्धोयंसोमः महतास्थविष्ठेनस्कंभनेन स्तंभ- नसाधनेनमध्यवर्तिनान्तरिक्षेणद्यांद्युलोकंउदस्तभ्नात् ऊर्ध्वमस्थापयत् यथाअधोनपततितथाअन्तरिक्षंतस्याधारत्वेनकृतवानित्यर्थः कीदृशःसोमः वृषभोवृष्टेर्जनयिता सोमाहुत्याहिवृष्टिर्जन्यतेम रुत्वान्मरुद्भिर्युक्तः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०