मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४७, ऋक् १४

संहिता

अव॒ त्वे इ॑न्द्र प्र॒वतो॒ नोर्मिर्गिरो॒ ब्रह्मा॑णि नि॒युतो॑ धवन्ते ।
उ॒रू न राध॒ः सव॑ना पु॒रूण्य॒पो गा व॑ज्रिन्युवसे॒ समिन्दू॑न् ॥

पदपाठः

अव॑ । त्वे इति॑ । इ॒न्द्र॒ । प्र॒ऽवतः॑ । न । ऊ॒र्मिः । गिरः॑ । ब्रह्मा॑णि । नि॒ऽयुतः॑ । ध॒व॒न्ते॒ ।
उ॒रु । न । राधः॑ । सव॑ना । पु॒रूणि॑ । अ॒पः । गाः । व॒ज्रि॒न् । यु॒व॒से॒ । सम् । इन्दू॑न् ॥

सायणभाष्यम्

हेइन्द्र तेत्वांनियुतःस्तोतुःगिरः उक्थात्मिकावाचः ब्रह्माणिसामरूपाणिस्तोत्राणिच अवधवन्ते अवगच्छन्ति तत्रदृष्टान्तः—ऊर्मिःज- लसंघः प्रवतोन प्रवणदेशानिव यथाउच्छ्रितात्स्थलान्निम्नदेशंशीघ्रंगच्छतितद्वत् नशब्दःसमुच्चये उरुउरूणि राधोराधांसिच हविर्लक्षणा- निधनानि पुरूणीबहूनि सवनासवनानि बहवोभिषुताःसोमाश्च त्वामेवाभिगच्छन्ति हेवज्रिन् वज्रवन्निन्द्र अपोवसतीवर्याख्यागाःगोवि- कारान् श्र्उतदध्यादीन् श्रयणार्थान् इन्दून् सोमांश्च संयुवसेसम्यग्मिश्रयसि त्वांयष्टिंवसतीवरीभिरभिषुत्यतंसोममाशिरादिभिः श्रपण- द्रव्यैः संस्कुर्वन्तीत्यर्थः ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२