मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४७, ऋक् १६

संहिता

शृ॒ण्वे वी॒र उ॒ग्रमु॑ग्रं दमा॒यन्न॒न्यम॑न्यमतिनेनी॒यमा॑नः ।
ए॒ध॒मा॒न॒द्विळु॒भय॑स्य॒ राजा॑ चोष्कू॒यते॒ विश॒ इन्द्रो॑ मनु॒ष्या॑न् ॥

पदपाठः

शृ॒ण्वे । वी॒रः । उ॒ग्रम्ऽउ॑ग्रम् । द॒म॒ऽयन् । अ॒न्यम्ऽअ॑न्यम् । अ॒ति॒ऽने॒नी॒यमा॑नः ।
ए॒ध॒मा॒न॒ऽद्विट् । उ॒भय॑स्य । राजा॑ । चो॒ष्कू॒यते॑ । विशः॑ । इन्द्रः॑ । म॒नु॒ष्या॑न् ॥

सायणभाष्यम्

अयमिन्द्रोवीरोवीर्यवानितिश्रृण्वे श्रूयते किंकुर्वन् उग्रमुग्रंउद्गूर्णंउद्गूर्णंबलिनंशत्रुंप्रतिदमायन् दमःदमनं बाधनमिच्छन् अन्यमन्यं- प्रथमंनेतव्यमन्यंपश्चान्नेतव्यंचान्यं पूर्वमपरंपरस्परस्परव्यवहारेण स्तोतॄन् अतिनेनीयमानः अत्यन्तंपुनःपुनर्नयन् अपिचएधमानद्विट् एधमानानांवर्धमानानांअसुन्वतांद्वेष्टा उभयस्यदिव्यस्यपार्थिवस्यचधनस्यराजार्इश्वरोयमिन्द्रःविशः निवेशयितॄन् स्वस्यपरिचारकान्- मनुष्यान् चोष्कूयते रक्षणार्थंपुनःपुनराह्वयति ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३