मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४७, ऋक् २१

संहिता

दि॒वेदि॑वे स॒दृशी॑र॒न्यमर्धं॑ कृ॒ष्णा अ॑सेध॒दप॒ सद्म॑नो॒ जाः ।
अह॑न्दा॒सा वृ॑ष॒भो व॑स्न॒यन्तो॒दव्र॑जे व॒र्चिनं॒ शम्ब॑रं च ॥

पदपाठः

दि॒वेऽदि॑वे । स॒ऽदृशीः॑ । अ॒न्यम् । अर्ध॑म् । कृ॒ष्णाः । अ॒से॒ध॒त् । अप॑ । सद्म॑नः । जाः ।
अह॑न् । दा॒सा । वृ॒ष॒भः । व॒स्न॒यन्ता॑ । उ॒दऽव्र॑जे । व॒र्चिन॑म् । शम्ब॑रम् । च॒ ॥

सायणभाष्यम्

अयमिन्द्रः सद्मनः सदनात् स्वकीयादंतरिक्षैकदेशात् स्थानात् जाः जायमानः सूर्यात्मना प्रादुर्भवन् सदृशीस्तुल्यरूपाः कृष्णाः कृष्ण- वर्णारात्रीः दिवेदिवेप्रतिदिवेप्रतिदिवसंअपासेधत् निवर्तयति किमर्थं अन्यमर्थंअहरर्थमपरंभागंप्रकाशयितुं अहोरात्रात्मकस्यदिवसस्यहि- रात्रिरेकोभागः अपिचवृषभोवर्षयितासइन्द्रः दासादासौउपक्षपयितारौ यज्ञकर्मणांवस्नयन्तावस्नंनिवासहेतुभूतंधनं तदिच्छन्तौ वर्चिनं- शंबरंचएतत्संज्ञावसुरौउदव्रजे उदकानिव्रजंत्यस्मिन्नितिउदव्रजोदेशविशेषः तस्मिन् अहन् हतवान् ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४