मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४८, ऋक् २

संहिता

ऊ॒र्जो नपा॑तं॒ स हि॒नायम॑स्म॒युर्दाशे॑म ह॒व्यदा॑तये ।
भुव॒द्वाजे॑ष्ववि॒ता भुव॑द्वृ॒ध उ॒त त्रा॒ता त॒नूना॑म् ॥

पदपाठः

ऊ॒र्जः । नपा॑तम् । सः । हि॒न । अ॒यम् । अ॒स्म॒ऽयुः । दाशे॑म । ह॒व्यऽदा॑तये ।
भुव॑त् । वाजे॑षु । अ॒वि॒ता । भुव॑त् । वृ॒धः । उ॒त । त्रा॒ता । त॒नूना॑म् ॥

सायणभाष्यम्

ऊर्जोन्नस्यबलस्यवानपातंपुत्रंप्रशंसिषमित्यनुषंगात् प्रशंसामेत्यर्थः हिनेतिनिपातद्वयसमुदायोहीत्यस्यार्थे सहिसखल्वयमग्निः अस्मयु- रस्मान्कामयमानोभवति वयंचहव्यदातये हव्यानांहविषांदेवेभ्योदात्रे तस्मैअग्नयेदाशेम हवींषिदद्याम सचाग्निः वाजेषुसंग्रामेषुअवितार- क्षितावृधोवर्धकश्चास्माकं भुवद्भवतु उतअपिच तनूनांतनयानामस्मत्पुत्राणांचत्रातारक्षिताभवतु ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः