मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४८, ऋक् ३

संहिता

वृषा॒ ह्य॑ग्ने अ॒जरो॑ म॒हान्वि॒भास्य॒र्चिषा॑ ।
अज॑स्रेण शो॒चिषा॒ शोशु॑चच्छुचे सुदी॒तिभि॒ः सु दी॑दिहि ॥

पदपाठः

वृषा॑ । हि । अ॒ग्ने॒ । अ॒जरः॑ । म॒हान् । वि॒ऽभासि॑ । अ॒र्चिषा॑ ।
अज॑स्रेण । शो॒चिषा॑ । शोशु॑चत् । शु॒चे॒ । सु॒दी॒तिऽभिः॑ । सु । दी॒दि॒हि॒ ॥

सायणभाष्यम्

हेअग्ने वृषावर्षिताकामानांवृष्टेः कर्तावा अजरोजरारहितः महान् गुणैरधिकः एवंभूतस्त्वं अर्चिषादीप्त्याविभासिहि विशेषेणप्रकाश- सेखलु दीप्ताग्ने अजस्रेणअविच्छिन्नेनशोचिषा तेजसाशोशुचत् भृशंदीप्यमानस्त्वं सुदीतिभिःसुदीप्तिभिःसुदीदिहि सुष्ठुअस्मान् दीपय प्रकाशय ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः