मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४८, ऋक् १५

संहिता

त्वे॒षं शर्धो॒ न मारु॑तं तुवि॒ष्वण्य॑न॒र्वाणं॑ पू॒षणं॒ सं यथा॑ श॒ता ।
सं स॒हस्रा॒ कारि॑षच्चर्ष॒णिभ्य॒ आँ आ॒विर्गू॒ळ्हा वसू॑ करत्सु॒वेदा॑ नो॒ वसू॑ करत् ॥

पदपाठः

त्वे॒षम् । शर्धः॑ । न । मारु॑तम् । तु॒वि॒ऽस्वनि॑ । अ॒न॒र्वाण॑म् । पू॒षण॑म् । सम् । यथा॑ । श॒ता ।
सम् । स॒हस्रा॑ । कारि॑षत् । च॒र्ष॒णिऽभ्यः॑ । आ । आ॒विः । गू॒ळ्हा । वसु॑ । क॒र॒त् । सु॒ऽवेदा॑ । नः॒ । वसु॑ । क॒र॒त् ॥

सायणभाष्यम्

नेतिसंप्रत्यर्थे नसंप्रतिइदानीं त्वेषंदीप्तंतुविष्वणि बहुस्वनं अनर्वाणंअप्रत्यृतंशत्रुभिरनभिगतं पूषणंपोषकंमारुतंमरुत्संघरूपमीदृशं- शर्धोबलं स्तौमीतिशेषः सचमरुद्गणः यथायेनप्रकारेण शता शतसंख्याकानिधनानिसंसहैवचर्षणिभ्योमनुष्येभ्योस्मभ्यंकारिषत् कुर्यात् आकारः समुच्चये यथावासहस्रासहस्रसंख्याकानिधनानिचसंसहैवकारिषत् कुर्यात् तथास्तौमीतिपूर्वत्रान्वयः अपिच समरुद्गणः गूह्ळा- गूढानि संवृतानिवसुवसूनिधनानिआविष्करत् अस्मभ्यमाविष्करोतु तथावसुवसूनिधनानिसुवेदासुलभानिचनोस्माकंकरत् करोतु यदातुलिंगादियंपौष्णीतदामारुतं शर्धइवत्वेषंपूषणंपूषकमेतत्संज्ञंदेवंस्तौमीतियोजनीयं ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः