मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४९, ऋक् ३

संहिता

अ॒रु॒षस्य॑ दुहि॒तरा॒ विरू॑पे॒ स्तृभि॑र॒न्या पि॑पि॒शे सूरो॑ अ॒न्या ।
मि॒थ॒स्तुरा॑ वि॒चर॑न्ती पाव॒के मन्म॑ श्रु॒तं न॑क्षत ऋ॒च्यमा॑ने ॥

पदपाठः

अ॒रु॒षस्य॑ । दु॒हि॒तरा॑ । विरू॑पे॒ इति॒ विऽरू॑पे । स्तृऽभिः॑ । अ॒न्या । पि॒पि॒शे । सूरः॑ । अ॒न्या ।
मि॒थः॒ऽतुरा॑ । वि॒चर॑न्ती॒ इति॑ वि॒ऽचर॑न्ती । पा॒व॒के इति॑ । मन्म॑ । श्रु॒तम् । न॒क्ष॒तः॒ । ऋ॒च्यमा॑ने॒ इति॑ ॥

सायणभाष्यम्

इयमहोरात्रयोःस्तुतिः अरुशस्यरोचमानस्यसूर्यस्यदुहितरौ सूर्येणहिअहोरात्रयोर्विभागःक्रियते अतस्तधीनात्मलाभत्वात् तस्यदुहित- रावित्युच्यते विरूपेशुक्लकृष्णतयानानारूपेतयोरन्याएकारात्रिःस्तृभिर्नक्षत्रैः पिपिशेपिश्यते संश्लिष्यते पिशअवयवइतिधातुः अन्याअह- रात्मिकादुहिता सूरःसूर्येणपिपिशेसंश्लिष्यते तेचनक्षत्रैः सूर्येणचालंकृतेभवतइत्यर्थः मिथस्तुरापरस्परंबाधयंत्यौअह्नारात्रिर्निवर्त्यते रा- त्र्याचाहरितिपरस्परंबाधः अतएवविचरन्तीविविधंपृथक् चरंत्यौपावकेस्र्वस्यशोधयित्र्यौ एवंभूतेअहश्चरात्रिश्चऋच्यमाने अस्माभिःस्तू- यमानेसत्यौ श्रुतं श्रोतव्यंमन्ममननीयं स्तोत्रमस्मत्कृतंनक्षतःव्याप्नुतां ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः