मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५०, ऋक् ५

संहिता

मि॒म्यक्ष॒ येषु॑ रोद॒सी नु दे॒वी सिष॑क्ति पू॒षा अ॑भ्यर्ध॒यज्वा॑ ।
श्रु॒त्वा हवं॑ मरुतो॒ यद्ध॑ या॒थ भूमा॑ रेजन्ते॒ अध्व॑नि॒ प्रवि॑क्ते ॥

पदपाठः

मि॒म्यक्ष॑ । येषु॑ । रो॒द॒सी । नु । दे॒वी । सिस॑क्ति । पू॒षा । अ॒भ्य॒र्ध॒ऽयज्वा॑ ।
श्रु॒त्वा । हव॑म् । म॒रु॒तः॒ । यत् । ह॒ । या॒थ । भूम॑ । रे॒ज॒न्ते॒ । अध्व॑नि । प्रऽवि॑क्ते ॥

सायणभाष्यम्

येषुमरुत्सुरोदसीरुद्र्स्यपत्नीदेवीद्योतमानामाध्यमिकावाक् मिम्यक्ष नुक्षिप्रंसगंच्छते तथाअभ्यर्धयज्वा स्तोतॄन्अभ्यर्धयन् समृद्धान्कु- र्वन्योयजति धनेनपूजयति तादृशःपूषापोषकोदेवश्च सिषक्ति यान्मरुतःसेवते अभ्यर्धयज्वाभ्यर्धयन्यजतीतियास्कः । हेमरुतस्तेयूयंहव- मस्मदीयमाह्वानंश्रुत्वायद्ध यदाखलु याथागच्छथ तदानींअध्वनिमार्गेप्रविक्तेगमनार्थंपृथक्कृतेसति तत्रविद्यमानानिभूमभूतजातानिरेज- न्ते कंपन्ते तथाचमंत्रान्तरं – प्रवेपयन्तिपर्वतान्विविंचंतिवनस्पतीन् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः