मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५०, ऋक् ९

संहिता

उ॒त त्वं सू॑नो सहसो नो अ॒द्या दे॒वाँ अ॒स्मिन्न॑ध्व॒रे व॑वृत्याः ।
स्याम॒हं ते॒ सद॒मिद्रा॒तौ तव॑ स्याम॒ग्नेऽव॑सा सु॒वीरः॑ ॥

पदपाठः

उ॒त । त्वम् । सू॒नो॒ इति॑ । स॒ह॒सः॒ । नः॒ । अ॒द्य । आ । दे॒वान् । अ॒स्मिन् । अ॒ध्व॒रे । व॒वृ॒त्याः॒ ।
स्याम् । अ॒हम् । ते॒ । सद॑म् । इत् । रा॒तौ । तव॑ । स्या॒म् । अ॒ग्ने॒ । अव॑सा । सु॒ऽवीरः॑ ॥

सायणभाष्यम्

उतअपिच हेसहसः सूनो बलस्यपुत्राग्ने त्वंअद्यास्मिन्कालेनो स्मदीयेअस्मिन्नध्वरेयागे देवान्यष्टव्यानिन्द्रादीन् आववृत्याः आवर्तयआ- गमय अपिचाहं तेतवरातौधनस्यदाने सदमित् सर्वदैवर्तमानःस्यांभवेयं तथाहेअग्ने तवावसात्वदीयेनरक्षणेनसुवीरः शोभनैः वीरैः पुत्रपौ- त्रादिभिरुपेतश्चस्यांभवेयं ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः