मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५१, ऋक् १६

संहिता

अपि॒ पन्था॑मगन्महि स्वस्ति॒गाम॑ने॒हस॑म् ।
येन॒ विश्वा॒ः परि॒ द्विषो॑ वृ॒णक्ति॑ वि॒न्दते॒ वसु॑ ॥

पदपाठः

अपि॑ । पन्था॑म् । अ॒ग॒न्म॒हि॒ । स्व॒स्ति॒ऽगाम् । अ॒ने॒हस॑म् ।
येन॑ । विश्वाः॑ । परि॑ । द्विषः॑ । वृ॒णक्ति॑ । वि॒न्दते॑ । वसु॑ ॥

सायणभाष्यम्

पंथांपंथानंमार्गंअप्यगन्महि अपिगताःप्राप्ताःस्मः कीदृशं स्वस्तिगां सुखेनगन्तव्यं अनेहसं पापरहितं येनपथागच्छन् विश्वाःसर्वाः द्विषोद्वेष्ट्रीःप्रजाः परिवृणक्ति परिवर्जयति वाधते वसधनंचविंदते लभते तादृशंपंथानमित्यर्थः ॥ १६ ॥

नतद्दिवेतिसप्तदशर्चंतृतीयंसूक्तंऋजिश्वन आर्षंवैश्वदेवं आदितः षट् त्रिष्ट्भः सप्तम्याद्याः षड्गायत्र्यः त्रयोदशीत्रिष्टुप् चतुर्दशीजगती शिष्टास्तिस्रस्त्रिष्टुभः तथाचानुक्रान्तं—नतत् त्र्यूनासप्तम्याद्याः षड्गायत्र्यश्चतुर्दशीजगतीति । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३