स्ती॒र्णे ब॒र्हिषि॑ समिधा॒ने अ॒ग्नौ सू॒क्तेन॑ म॒हा नम॒सा वि॑वासे ।
अ॒स्मिन्नो॑ अ॒द्य वि॒दथे॑ यजत्रा॒ विश्वे॑ देवा ह॒विषि॑ मादयध्वम् ॥
स्ती॒र्णे । ब॒र्हिषि॑ । स॒म्ऽइ॒धा॒ने । अ॒ग्नौ । सु॒ऽउ॒क्तेन॑ । म॒हा । नम॑सा । आ । वि॒वा॒से॒ ।
अ॒स्मिन् । नः॒ । अ॒द्य । वि॒दथे॑ । य॒ज॒त्राः॒ । विश्वे॑ । दे॒वाः॒ । ह॒विषि॑ । मा॒द॒य॒ध्व॒म् ॥
हेविश्वेदेवाः बर्हिषिदर्भपुंजेवेद्यांस्तीर्णेसति अग्नौचसमिधानेसमिद्धेसति अनेनसूक्तेन स्तोत्रेणचमहामहतानमसानमस्कारेणच आवि- वासे पर्यचरं हेयजत्रायजनीयाविश्वेदेवाः अद्यअस्मिन् दिनेनोस्मदीयेस्मिन् विदथेयज्ञेहविषि तृतीयार्थेसप्तमी हविषाअस्माभिर्दत्तेनमा- दयध्वं तृप्यध्वं ॥ १७ ॥
वयमुत्वेतिदशर्चंचतुर्थंसूक्तं भरद्वाजस्यार्षंपौष्णं यांपूषन्नित्यनुष्टुप् शिष्टागायत्र्यः तथाचानुक्रान्तं—वयंदशपौष्णंतद्गायत्रंवैयांपूषन्ननु- ष्टुबिति । अर्थार्थिभिः प्रवसद्भिरेतत् जप्यं सूत्रितंच—वयमुत्वापथस्पथइत्यर्थचर्यांचरिष्यन्नितिजपेदितिशेषः ।