मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५३, ऋक् ३

संहिता

अदि॑त्सन्तं चिदाघृणे॒ पूष॒न्दाना॑य चोदय ।
प॒णेश्चि॒द्वि म्र॑दा॒ मनः॑ ॥

पदपाठः

अदि॑त्सन्तम् । चि॒त् । आ॒घृ॒णे॒ । पूष॑न् । दाना॑य । चो॒द॒य॒ ।
प॒णेः । चि॒त् । वि । म्र॒द॒ । मनः॑ ॥

सायणभाष्यम्

हेआघृणे आगतदीप्ते पूषन् अदित्सन्तंचित् दातुमनिच्छन्तमपिपुरुषं दानायअस्मद्दानार्थंचो दय प्रेरय पणेश्चित् वणिजोपिवार्धुशिक- स्यलुब्धस्यापिमनोहृदयंविम्रद दानार्थंमृदूकुरु ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७