मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५४, ऋक् १

संहिता

सं पू॑षन्वि॒दुषा॑ नय॒ यो अञ्ज॑सानु॒शास॑ति ।
य ए॒वेदमिति॒ ब्रव॑त् ॥

पदपाठः

सम् । पू॒ष॒न् । वि॒दुषा॑ । न॒य॒ । यः । अञ्ज॑सा । अ॒नु॒ऽशास॑ति ।
यः । ए॒व । इ॒दम् । इति॑ । ब्रव॑त् ॥

सायणभाष्यम्

हेपूषन् पोषकदेव विदुषाजानतातेनजनेनसन्नय अस्मान्संगमय योविद्वान् अंजसाऋजुमार्गेण अनुशासति अनुशास्ति नष्टद्रव्यप्राप्त्यु- पायमुपदिशति यश्चएवएवंइदंनष्टंभवदीयंधनमितिब्रवत् ब्रवीति नष्टंधनंदर्शयतीत्यर्थः तेनविदुषेत्य वयः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९