मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५४, ऋक् ७

संहिता

माकि॑र्नेश॒न्माकीं॑ रिष॒न्माकीं॒ सं शा॑रि॒ केव॑टे ।
अथारि॑ष्टाभि॒रा ग॑हि ॥

पदपाठः

माकिः॑ । ने॒श॒त् । माकी॑म् । रि॒ष॒त् । माकी॑म् । सम् । शा॒रि॒ । केव॑टे ।
अथ॑ । अरि॑ष्टाभिः । आ । ग॒हि॒ ॥

सायणभाष्यम्

हेपूषन् अस्मदीयंगोधनंमाकिर्नेशत् मानश्यतु माकिर्माकीमित्येतौप्रतिषेधमात्रेवर्तेते माकींरिषत् माव्याघ्रादिभिर्हिंस्यतांमाकींमाच- केवटेकूपेसंशारि संशीर्णंभूत् कूपपातेनापिहिंसितंमाभवतु अथएवंसतिअरिष्टाभिरहिंसिताभिर्गोभिः सहआगहि सायंकालेआगच्छ ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०