मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५४, ऋक् १०

संहिता

परि॑ पू॒षा प॒रस्ता॒द्धस्तं॑ दधातु॒ दक्षि॑णम् ।
पुन॑र्नो न॒ष्टमाज॑तु ॥

पदपाठः

परि॑ । पू॒षा । प॒रस्ता॑त् । हस्त॑म् । द॒धा॒तु॒ । दक्षि॑णम् ।
पुनः॑ । नः॒ । न॒ष्टम् । आ । अ॒ज॒तु॒ ॥

सायणभाष्यम्

पूषापोषकोदेवः परस्तात् परस्मिन्देशे सुसंचारादन्यस्मिन् चोरव्याघ्नादिभिरुषितेदेशे गच्छ तोगोधनस्यनिवारणायस्वकीयंदक्षिणं- हस्तंपरिदधातु परिधानंनिवारकंकरोतु नोस्मदीयंनष्टंच गोधनंपुनराजतु आगच्छतु आगमयतु ॥ १० ॥

एहिवामितिषळृचंषष्ठंसूक्तं भरद्वाजस्यार्षंगायत्रंपौष्णं अनुक्रम्यतेच—एहिवांषडिति । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०