मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५६, ऋक् ४

संहिता

यद॒द्य त्वा॑ पुरुष्टुत॒ ब्रवा॑म दस्र मन्तुमः ।
तत्सु नो॒ मन्म॑ साधय ॥

पदपाठः

यत् । अ॒द्य । त्वा॒ । पु॒रु॒ऽस्तु॒त॒ । ब्रवा॑म । द॒स्र॒ । म॒न्तु॒ऽमः॒ ।
तत् । सु । नः॒ । मन्म॑ । सा॒ध॒य॒ ॥

सायणभाष्यम्

हेपुरुष्टुत बहुभिर्यजमानैःस्तुत दस्रदर्शनीय मन्तुमःज्ञानवन् पूषन् अद्येदानींयदुद्दिश्यत्वांब्रवाम स्तवाम नोस्माकंमन्ममननीयंसुसुष्ठु- तद्धनं साधय उत्पादय ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२