मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५६, ऋक् ६

संहिता

आ ते॑ स्व॒स्तिमी॑मह आ॒रेअ॑घा॒मुपा॑वसुम् ।
अ॒द्या च॑ स॒र्वता॑तये॒ श्वश्च॑ स॒र्वता॑तये ॥

पदपाठः

आ । ते॒ । स्व॒स्तिम् । ई॒म॒हे॒ । आ॒रेऽअ॑घाम् । उप॑ऽवसुम् ।
अ॒द्य । च॒ । स॒र्वऽता॑तये । श्वः । च॒ । स॒र्वऽता॑तये ॥

सायणभाष्यम्

हेपूषन्त्वदीयांत्वयादेयांस्वस्तिंकल्याणींरक्षां आरेअघांआरेदूरेअघंपापंयस्याः तादृशीं उपावसुं उपगतधनां ईदृशींस्वस्तिं अद्यच अस्मिं श्चकाले सर्वतातये सर्वैरृत्विग्भिः स्तायइतिसर्वतातिर्यज्ञः तदर्थं यद्वासर्वेषांभॊगानांविस्तारय श्वश्चपरस्मिन्नपिदिनेसर्वतातयेसर्वदासर्व- तात्यर्थंआईमहे अतियाचामहे । इन्द्रानुपूषणेतिषळृचमष्टमंसूक्तं भरद्वाजस्यार्षंगायत्रमैन्द्रापौष्णं अनुक्रान्तंच—इन्द्रान्वैन्द्रंचेति । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२