मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५८, ऋक् २

संहिता

अ॒जाश्व॑ः पशु॒पा वाज॑पस्त्यो धियंजि॒न्वो भुव॑ने॒ विश्वे॒ अर्पि॑तः ।
अष्ट्रां॑ पू॒षा शि॑थि॒रामु॒द्वरी॑वृजत्सं॒चक्षा॑णो॒ भुव॑ना दे॒व ई॑यते ॥

पदपाठः

अ॒जऽअ॑श्वः । प॒शु॒ऽपाः । वाज॑ऽपस्त्यः । धि॒य॒म्ऽजि॒न्वः । भुव॑ने । विश्वे॑ । अर्पि॑तः ।
अष्ट्रा॑म् । पू॒षा । शि॒थि॒राम् । उ॒त्ऽवरी॑वृजत् । स॒म्ऽचक्षा॑णः । भुव॑ना । दे॒वः । ई॒य॒ते॒ ॥

सायणभाष्यम्

अजाश्वः छागवाहनः पशुपाः पशूनांपालयिता वाजपस्त्यः वाजाअन्नानिपस्त्येगृहेयस्य तादृशः धियंजिन्वः धियः स्तोतारः कर्माणि- वातेषांप्रीणयिता विश्वेविश्वस्मिन् सर्वस्मिन्भुवने लोकेअर्पितः प्रजापतिनापोषकत्वेनस्थापितः अतएवंभूतः पूषापोषकोदेवः अष्टांआरां- स्वहस्तगतांशिथिरांशिथिलांसतींउद्वरीवृजत् उद्यच्छन् भुवनाभुवनानि सर्वान् लोकान् भूतजातानिवासंचक्षाणः संपश्यन् सूर्यात्मना- प्रकाशयन् ईयते नभसिगच्छति ॥ २ ॥ पौष्णस्यपशोर्वपापुरोडाशयोर्यास्तेपूषन्नित्यादिकेद्वेऋचावनुवाक्ये सूत्रितंच—यास्तेपूषन्नावोअन्तःसमुद्रइतिद्वेपूषेमाआशाअनुवेदस- र्वाइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४