मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६१, ऋक् ८

संहिता

यस्या॑ अन॒न्तो अह्रु॑तस्त्वे॒षश्च॑रि॒ष्णुर॑र्ण॒वः ।
अम॒श्चर॑ति॒ रोरु॑वत् ॥

पदपाठः

यस्याः॑ । अ॒न॒न्तः । अह्रु॑तः । त्वे॒षः । च॒रि॒ष्णुः । अ॒र्ण॒वः ।
अमः॑ । चर॑ति । रोरु॑वत् ॥

सायणभाष्यम्

यस्याःसरस्वत्याः अमोबलंअनन्तः अपर्यन्तः अपरिमितः अह्रुतः अहिंसितः अकुटिलोवात्वेषोदीप्तः चरिष्णुः चरणशीलः सर्वत्राप्रति- हतगतिरित्यर्थः अर्णवः उदकवान् उदकप्रदइत्यर्थः एवंभूतः सन् रोरुवत् भृशंशब्दंकुर्वन् चरति वर्तते । सानोविश्वाइत्युत्तरत्रसंबन्धः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१