मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६१, ऋक् १३

संहिता

प्र या म॑हि॒म्ना म॒हिना॑सु॒ चेकि॑ते द्यु॒म्नेभि॑र॒न्या अ॒पसा॑म॒पस्त॑मा ।
रथ॑ इव बृह॒ती वि॒भ्वने॑ कृ॒तोप॒स्तुत्या॑ चिकि॒तुषा॒ सर॑स्वती ॥

पदपाठः

प्र । या । म॒हि॒म्ना । म॒हिना॑ । आ॒सु॒ । चेकि॑ते । द्यु॒म्नेभिः॑ । अ॒न्याः । अ॒पसा॑म् । अ॒पःऽत॑मा ।
रथः॑ऽइव । बृ॒ह॒ती । वि॒ऽभ्वने॑ । कृ॒ता । उ॒प॒ऽस्तुत्या॑ । चि॒कि॒तुषा॑ । सर॑स्वती ॥

सायणभाष्यम्

महिम्नामाहात्म्येनमहिनामहती द्युम्नेभिःद्युम्नौर्द्योतमानैः यशोभिरन्नैर्वायुक्तासती आसु आसांनदीनांदेवतानांमध्येयासरस्वतीप्रचेकिते प्रकर्षेणज्ञायते । याचअन्याः अन्यासां सुपांसुलुगितिषष्ठीबहुवचनस्यजस् अपसांवेगवतीनांमध्येअपस्तमावेगवत्तमा याचरथइवविभ्व- नेविभुत्वायवृहती परिवृढा गुणैरधिकाकृता प्रजापतिनानिर्मिता सासरस्वतीचिकितुषा जानतास्तोत्रा उपस्तुत्याउपस्तोतव्याभवति ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२