मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६२, ऋक् ४

संहिता

ता नव्य॑सो॒ जर॑माणस्य॒ मन्मोप॑ भूषतो युयुजा॒नस॑प्ती ।
शुभं॒ पृक्ष॒मिष॒मूर्जं॒ वह॑न्ता॒ होता॑ यक्षत्प्र॒त्नो अ॒ध्रुग्युवा॑ना ॥

पदपाठः

ता । नव्य॑सः । जर॑माणस्य । मन्म॑ । उप॑ । भू॒ष॒तः॒ । यु॒यु॒जा॒नस॑प्ती॒ इति॑ यु॒यु॒जा॒नऽस॑प्ती ।
शुभ॑म् । पृक्ष॑म् । इष॑म् । ऊर्ज॑म् । वह॑न्ता । होता॑ । य॒क्ष॒त् । प्र॒त्नः । अ॒ध्रुक् । युवा॑ना ॥

सायणभाष्यम्

ता तावश्विनौ युयुजानसप्तीरथे युज्यमानाश्वौ शुभं शॊभनं पृक्षमन्नं पय: पृक्ष इत्यन्ननामसु पाठात् इषं पुष्टिं ऊर्जं रसं च वहन्ता वहन्तौ नव्यसो नवतरस्य जरमाणस्य स्तुतिं कुर्वत: मन्म मननीयं स्तोत्रं उपभूषत: उपगच्छत: । यद्वा स्तोत्रसमीपेभवत: किंचयुवाना नित्यतरुणौ तौ होता देवानामाह्वाता अध्रुक् अद्रोग्धा प्रिय: प्रत्न: पुराणाग्नि: यक्षत् यजतु ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः