मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६२, ऋक् १०

संहिता

अन्त॑रैश्च॒क्रैस्तन॑याय व॒र्तिर्द्यु॒मता या॑तं नृ॒वता॒ रथे॑न ।
सनु॑त्येन॒ त्यज॑सा॒ मर्त्य॑स्य वनुष्य॒तामपि॑ शी॒र्षा व॑वृक्तम् ॥

पदपाठः

अन्त॑रैः । च॒क्रैः । तन॑याय । व॒र्तिः । द्यु॒ऽमता॑ । आ । या॒त॒म् । नृ॒ऽवता॑ । रथे॑न ।
सनु॑त्येन । त्यज॑सा । मर्त्य॑स्य । व॒नु॒ष्य॒ताम् । अपि॑ । शी॒र्षा । व॒वृ॒क्त॒म् ॥

सायणभाष्यम्

हे अश्विनौ अन्तरैः अनिकृष्टैश्चक्रैर्युक्तेन द्युमता दीप्तिमता नृवता नेत्रा सारथिना युक्तेन यद्वा अश्वयुक्तेन पतंगाः नर इति अश्वनामसु पाठात् रथेन वर्तिः अस्माकं गृहं तनयाय तनयं दातुं आयातं अपि च सनुत्येन तिरोहितेन त्यजसा क्रोधेन हृणिस्त्यजइति क्रोधनामसु पाठात् मर्त्यस्य मनुष्यस्य वनुष्यतां बाधमानानां वनुष्यतिर्हंतिकर्मेति यास्केनोक्तत्वात् शीर्घा शिरांस्यपि ववृक्तं प्रवृक्तं ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः