मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६३, ऋक् २

संहिता

अरं॑ मे गन्तं॒ हव॑नाया॒स्मै गृ॑णा॒ना यथा॒ पिबा॑थो॒ अन्ध॑ः ।
परि॑ ह॒ त्यद्व॒र्तिर्या॑थो रि॒षो न यत्परो॒ नान्त॑रस्तुतु॒र्यात् ॥

पदपाठः

अर॑म् । मे॒ । ग॒न्त॒म् । हव॑नाय । अ॒स्मै । गृ॒णा॒ना । यथा॑ । पिबा॑थः । अन्धः॑ ।
परि॑ । ह॒ । त्यत् । व॒र्तिः । या॒थः॒ । रि॒षः । न । यत् । परः॑ । न । अन्त॑रः । तु॒तु॒र्यात् ॥

सायणभाष्यम्

हे अश्विनौ युवां मे मदीयायास्मै हवनायाह्वानाय अरं पर्याप्तं गन्तं गच्छतं गृणाना स्तूयमानौ अंधः सोमं यथा पिबाथः पिबतम् । रिषो हिंसकस्य शत्रोः त्यद्वर्तिः तद्गृहं परियाथः परितोयाथः यद्वर्तिः परो विप्रकृष्टो न तुतुर्यात् न हिंस्यात् अन्तरः संनिकृष्टोपि न तुतुर्यात् यद्वा त्यद्वर्तिः तदस्मदीयं गृहं रिषोहिंसकात्परियाथः । त्यद्वर्तिः परोविप्रकृष्टः अन्तरः सन्निकृष्ठोपि न तुतुर्यात् अयं भावः यथास्मदीयं गृहं दूरस्थः सन्निकृष्टोपि न हिंस्यात् तथा रक्षां कुरुथइति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः