मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६३, ऋक् ३

संहिता

अका॑रि वा॒मन्ध॑सो॒ वरी॑म॒न्नस्ता॑रि ब॒र्हिः सु॑प्राय॒णत॑मम् ।
उ॒त्ता॒नह॑स्तो युव॒युर्व॑व॒न्दा वां॒ नक्ष॑न्तो॒ अद्र॑य आञ्जन् ॥

पदपाठः

अका॑रि । वा॒म् । अन्ध॑सः । वरी॑मन् । अस्ता॑रि । ब॒र्हिः । सु॒प्र॒ऽअ॒य॒नत॑मम् ।
उ॒त्ता॒नऽह॑स्तः । यु॒व॒युः । व॒व॒न्द॒ । आ । वा॒म् । नक्ष॑न्तः । अद्र॑यः । आ॒ञ्ज॒न् ॥

सायणभाष्यम्

वां युवयोरर्थे अन्धसः सोमस्य वरीमन् विस्तृतेभिषवादौ यत्कृत्यमस्ति तदकारि । कृतं सुप्रायणतमं मृदुतमं बर्हिः अस्तारि स्तीर्णं उत्तानहस्तः कृतांजलिः युवयुः युवां कामयमानः होता ववन्द स्तैति वां युवां नक्षन्तः व्याप्नुवन्तः तृक्ष पृक्ष नक्ष गताविति धातुः अद्रयः ग्रावाणः आंजन् सोमरसं आसमन्ताद्व्यक्तीकृतवन्तः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः