मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६५, ऋक् ३

संहिता

श्रवो॒ वाज॒मिष॒मूर्जं॒ वह॑न्ती॒र्नि दा॒शुष॑ उषसो॒ मर्त्या॑य ।
म॒घोनी॑र्वी॒रव॒त्पत्य॑माना॒ अवो॑ धात विध॒ते रत्न॑म॒द्य ॥

पदपाठः

श्रवः॑ । वाज॑म् । इष॑म् । ऊर्ज॑म् । वह॑न्तीः । नि । दा॒शुषे॑ । उ॒ष॒सः॒ । मर्त्या॑य ।
म॒घोनीः॑ । वी॒रऽव॑त् । पत्य॑मानाः । अवः॑ । धा॒त॒ । वि॒ध॒ते । रत्न॑म् । अ॒द्य ॥

सायणभाष्यम्

हे उषसः दाशुषे हविषां दात्रे मर्त्याय श्रवःकीर्तिं वाजं बलं इषमन्नं ऊर्जं रसं च वहन्ती र्षहंत्योयूयं मघोनी र्धनवत्यः पत्यमाना गच्छन्त्यः अघ विधते परिचरते मह्यं वीरवत् पुत्रपोत्रादिसहितं अवोन्नं सिनं अवेत्यन्ननामसु पाठात् रत्नं धनं च श्वात्रं रत्नमिति धननामसु पाठात् निधात नितरां धत्त ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः