मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६५, ऋक् ५

संहिता

इ॒दा हि त॑ उषो अद्रिसानो गो॒त्रा गवा॒मङ्गि॑रसो गृ॒णन्ति॑ ।
व्य१॒॑र्केण॑ बिभिदु॒र्ब्रह्म॑णा च स॒त्या नृ॒णाम॑भवद्दे॒वहू॑तिः ॥

पदपाठः

इ॒दा । हि । ते॒ । उ॒षः॒ । अ॒द्रि॒सा॒नो॒ इत्य॑द्रिऽसानो । गो॒त्रा । गवा॑म् । अङ्गि॑रसः । गृ॒णन्ति॑ ।
वि । अ॒र्केण॑ । बि॒भि॒दुः॒ । ब्रह्म॑णा । च॒ । स॒त्या । नृ॒णाम् । अ॒भ॒व॒त् । दे॒वऽहू॑तिः ॥

सायणभाष्यम्

हे उषः अद्रिसानो आदृतसानो ते तव प्रसादात् इदाहि सद्यएवगवां गोत्रा सं घान् अंगिरसो गृणन्ति सृजन्ति तथा च निगमन्तरं-गवां गोत्रमुदसृजोयदंगिरइति । अर्केण अर्चनीयेन ब्रह्मणा स्तोत्रेण वि बिभिदुः तमांसि विदारयन्ति च नृणां नेतॄणां तेषामंगिरसां देवहूति- र्देवविषयास्तुतिः सत्या सत्यफलाभवत् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः