मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६६, ऋक् ४

संहिता

न य ईष॑न्ते ज॒नुषोऽया॒ न्व१॒॑न्तः सन्तो॑ऽव॒द्यानि॑ पुना॒नाः ।
निर्यद्दु॒ह्रे शुच॒योऽनु॒ जोष॒मनु॑ श्रि॒या त॒न्व॑मु॒क्षमा॑णाः ॥

पदपाठः

न । ये । ईष॑न्ते । ज॒नुषः॑ । अया॑ । नु । अ॒न्तरिति॑ । सन्तः॑ । अ॒व॒द्यानि॑ । पु॒ना॒नाः ।
निः । यत् । दु॒ह्रे । शुच॑यः । अनु॑ । जोष॑म् । अनु॑ । श्रि॒या । त॒न्व॑म् । उ॒क्षमा॑णाः ॥

सायणभाष्यम्

ये प्रसिद्धा मरुतः जनुषो जनान् स्तोतॄन् प्रति अया अयेन मनसा धनेन नेषन्ते नगच्छन्ति । किं तेषां रक्षणीयत्वाभावाद्गमनाभावः नेत्याह अन्तः सन्तः सर्वेषा हृदि वर्तमानाएव अवद्यानि पापानि पुनानाः शोधयन्तः तथा च निगमान्तरं-प्राणावैमरुतःस्वापयइति । अतः सर्वप्राणिनां हृदि वर्तमानानां तेषां गमनं नास्तीति अध्यात्मं प्राणरूपेणावस्थानं दर्शितं भवति । शीघ्रगामित्वं तु तेषामाधिदैव- तरूपेणेति द्रष्टव्यं यद्यदा शुचयो दीप्यमाना मरुतः जोषमनु स्तोतॄणां काममनु निदुह्रे नितरां दुहंत्युदकं तथा श्रिया दीप्त्या अनु अनुग- तास्तन्वं आत्मीयं शरीरं प्रकाशयन्तः उक्षमाणाः भूमिं सिंचन्तो भवन्ति । यद्वा तन्वं विस्तीर्णं यथा भवति तथोक्षमाणा भूमिं सिंचन्तो भवन्तीत्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः