मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६६, ऋक् ७

संहिता

अ॒ने॒नो वो॑ मरुतो॒ यामो॑ अस्त्वन॒श्वश्चि॒द्यमज॒त्यर॑थीः ।
अ॒न॒व॒सो अ॑नभी॒शू र॑ज॒स्तूर्वि रोद॑सी प॒थ्या॑ याति॒ साध॑न् ॥

पदपाठः

अ॒ने॒नः । वः॒ । म॒रु॒तः॒ । यामः॑ । अ॒स्तु॒ । अ॒न॒श्वः । चि॒त् । यम् । अज॑ति । अर॑थीः ।
अ॒न॒व॒सः । अ॒न॒भी॒शुः । र॒जः॒ऽतूः । वि । रोद॑सी॒ इति॑ । प॒थ्याः॑ । या॒ति॒ । साध॑न् ॥

सायणभाष्यम्

हे मरुतः वो युष्माकं संबन्धी यामो रथः अनेनः पापरहितं यथा भवति तथा अस्तु प्रादुर्भवतु । किं च यं यामं अरथीः रथिः सारथिः नरथिः अरथीः असारथिरपि स्तोता अजति प्रेरयति । स रथा अनश्वश्चित् अश्वरहितोपि अनवसः पथ्यदनरहितः अनभीशुः पाशर- हितोपि रजस्तूः उदकस्य प्रेरकः साधन् स्तोतॄणां कामान् साधयन् रोदसी द्यावापृथिव्योपथ्याः पथोन्तरिक्षमार्गान् वियाति विविधं गच्छति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः