मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६७, ऋक् ४

संहिता

अश्वा॒ न या वा॒जिना॑ पू॒तब॑न्धू ऋ॒ता यद्गर्भ॒मदि॑ति॒र्भर॑ध्यै ।
प्र या महि॑ म॒हान्ता॒ जाय॑माना घो॒रा मर्ता॑य रि॒पवे॒ नि दी॑धः ॥

पदपाठः

अश्वा॑ । न । या । वा॒जिना॑ । पू॒तब॑न्धू॒ इति॑ पू॒तऽब॑न्धू । ऋ॒ता । यत् । गर्भ॑म् । अदि॑तिः । भर॑ध्यै ।
प्र । या । महि॑ । म॒हान्ता॑ । जाय॑माना । घो॒रा । मर्ता॑य । रि॒पवे॑ । नि । दी॒ध॒रिति॑ दीधः ॥

सायणभाष्यम्

या यौ अश्वान अश्वाविव वाजिना वाजिनौ बलिनौ पूतबन्धू पूतस्तोत्रौ ऋता सत्यौ च यत् यौ गर्भं गर्भभूतौ अदितिर्देवी भरध्यै बभार । किं च या यौ जायमाना जायमानायेव महि महतो महान्ता महत्तरौ प्रभूतौ मित्रावरुणौ मर्ताय मर्त्याय रिपवे हिंसकाय घोरा घोरौ घातकौ निदीधः निदधार अदितिः स्वोदरे ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः