मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६८, ऋक् १

संहिता

श्रु॒ष्टी वां॑ य॒ज्ञ उद्य॑तः स॒जोषा॑ मनु॒ष्वद्वृ॒क्तब॑र्हिषो॒ यज॑ध्यै ।
आ य इन्द्रा॒वरु॑णावि॒षे अ॒द्य म॒हे सु॒म्नाय॑ म॒ह आ॑व॒वर्त॑त् ॥

पदपाठः

श्रु॒ष्टी । वा॒म् । य॒ज्ञः । उत्ऽय॑तः । स॒ऽजोषाः॑ । म॒नु॒ष्वत् । वृ॒क्तऽब॑र्हिषः । यज॑ध्यै ।
आ । यः । इन्द्रा॒वरु॑णौ । इ॒षे । अ॒द्य । म॒हे । सु॒म्नाय॑ । म॒हे । आ॒ऽव॒वर्त॑त् ॥

सायणभाष्यम्

महे मंहनीयौ हे इन्द्रावरुणौ वां युवयोरर्थे श्रुष्टी क्षिप्रः तथा च यास्कः-श्रुष्टीति क्षिप्रनाम श्रु अष्टीति । यज्ञः सोमः सजोषाः ऋत्विग्भिः सहितः अद्य आसमन्तात् उद्यतः प्रवृत्तः यः सोमः मनुष्वत् मनोरिव बृक्तबर्हिषः स्तीर्णबर्हिषो यजमानस्य इषोन्नार्थं महे महते सुम्राय सुखाय च यजध्यै यष्टुं वां आववर्तत् आवर्तयति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११