मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६८, ऋक् ९

संहिता

प्र स॒म्राजे॑ बृह॒ते मन्म॒ नु प्रि॒यमर्च॑ दे॒वाय॒ वरु॑णाय स॒प्रथः॑ ।
अ॒यं य उ॒र्वी म॑हि॒ना महि॑व्रत॒ः क्रत्वा॑ वि॒भात्य॒जरो॒ न शो॒चिषा॑ ॥

पदपाठः

प्र । स॒म्ऽराजे॑ । बृ॒ह॒ते । मन्म॑ । नु । प्रि॒यम् । अर्च॑ । दे॒वाय॑ । वरु॑णाय । स॒ऽप्रथः॑ ।
अ॒यम् । यः । उ॒र्वी इति॑ । म॒हि॒ना । महि॑ऽव्रतः । क्रत्वा॑ । वि॒ऽभाति॑ । अ॒जरः॑ । न । शो॒चिषा॑ ॥

सायणभाष्यम्

हे स्तोतः सम्राजे आज्ञया राज्ञां शासकाय बृहते परिबृढाय देवाय द्योतमानाय वरुणाय प्रियं मनोहरं सप्रथः सर्वतः पृथु तथा च यास्कः- सप्रथाः सर्वतः पृथुरिति । मन्म स्तोत्रं नु अद्य प्रार्च प्रोच्चारय अयं यः यो यं वरुणः महिना महिम्ना युक्तः महिव्रतोमहाकर्मा क्रत्वा प्रज्ञया च युक्तः शोचिषा तेजसा युक्तः अजरो न जरारहितश्च उर्वी विस्तीर्णे द्यावापृथिव्यौ विभाति विभासयति ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२