मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ७०, ऋक् २

संहिता

अस॑श्चन्ती॒ भूरि॑धारे॒ पय॑स्वती घृ॒तं दु॑हाते सु॒कृते॒ शुचि॑व्रते ।
राज॑न्ती अ॒स्य भुव॑नस्य रोदसी अ॒स्मे रेतः॑ सिञ्चतं॒ यन्मनु॑र्हितम् ॥

पदपाठः

अस॑श्चन्ती॒ इति॑ । भूरि॑धारे॒ इति॒ भूरि॑ऽधारे । पय॑स्वती॒ इति॑ । घृ॒तम् । दु॒हा॒ते॒ इति॑ । सु॒ऽकृते॑ । शुचि॑व्रते॒ इति॒ शुचि॑ऽव्रते ।
राज॑न्ती॒ इति॑ । अ॒स्य । भुव॑नस्य । रो॒द॒सी॒ इति॑ । अ॒स्मे इति॑ । रेतः॑ । सि॒ञ्च॒त॒म् । यत् । मनुः॑ऽहितम् ॥

सायणभाष्यम्

असश्चन्ती असज्यमाने व्युदस्यंत्यौवा भूरिधारे बहुधारे दिवो वृष्टिधाराः पृथिव्याश्चाहुत्युद्भूतरसधाराः एवमुभयोरपि बहुधारत्वं पयस्वती उदकवत्यौ तथा च यास्कः-असज्यमाने इतिवाव्युदस्यंत्याविति वा बहुधारे उदकवत्याविति । शुचिव्रते शुचिक्रिये द्यावापृ- थिव्यौ सुकृते शोभनकारिणे यजमानाय घृतं सस्यादिसमृद्धिहेतु उदकं दुहाते । अथ प्रत्यक्षस्तुतिः रोदसी हे द्यावापृथिव्यौ अस्य भुवनस्य भूतजातस्य राजन्ती ईशाते युवां अस्मै अस्मासु रेतः प्रजननसमर्थं वीर्यं सिंचतं यद्रेतोमनुर्हितं मनुष्येभ्यो हितं ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४